Original

ततोऽस्याश्वाञ्शरैस्तीक्ष्णैर्बीभत्सुर्भारसाधनैः ।आकर्णमुक्तैरभ्यघ्नंस्ते हताः प्रापतन्भुवि ॥ २२ ॥

Segmented

ततो अस्य अश्वान् शरैः तीक्ष्णैः बीभत्सुः भार-साधनैः आकर्णमुक्तैः अभ्यघ्नन् ते हताः प्रापतन् भुवि

Analysis

Word Lemma Parse
ततो ततस् pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
भार भार pos=n,comp=y
साधनैः साधन pos=a,g=m,c=3,n=p
आकर्णमुक्तैः आकर्णमुक्त pos=a,g=m,c=3,n=p
अभ्यघ्नन् अभिहन् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
प्रापतन् प्रपत् pos=v,p=3,n=p,l=lan
भुवि भू pos=n,g=f,c=7,n=s