Original

दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः ।इषुभिस्तूर्णमाकाशं बहुभिश्च समावृणोत् ॥ ४४ ॥

Segmented

दर्शयन्न् ऐन्द्रिः आत्मानम् उग्रम् उग्र-पराक्रमः इषुभिः तूर्णम् आकाशम् बहुभिः च समावृणोत्

Analysis

Word Lemma Parse
दर्शयन्न् दर्शय् pos=va,g=m,c=1,n=s,f=part
ऐन्द्रिः ऐन्द्रि pos=n,g=m,c=1,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
उग्रम् उग्र pos=a,g=m,c=2,n=s
उग्र उग्र pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
इषुभिः इषु pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
आकाशम् आकाश pos=n,g=n,c=2,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
pos=i
समावृणोत् समावृ pos=v,p=3,n=s,l=lan