Original

स रथेन चरन्पार्थः प्रेक्षणीयो धनंजयः ।युगपद्दिक्षु सर्वासु सर्वशस्त्राण्यदर्शयत् ॥ ३० ॥

Segmented

स रथेन चरन् पार्थः प्रेक्षणीयो धनंजयः युगपद् दिक्षु सर्वासु सर्व-शस्त्राणि अदर्शयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रथेन रथ pos=n,g=m,c=3,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
पार्थः पार्थ pos=n,g=m,c=1,n=s
प्रेक्षणीयो प्रेक्ष् pos=va,g=m,c=1,n=s,f=krtya
धनंजयः धनंजय pos=n,g=m,c=1,n=s
युगपद् युगपद् pos=i
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
सर्व सर्व pos=n,comp=y
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
अदर्शयत् दर्शय् pos=v,p=3,n=s,l=lan