Original

नाशयञ्शरवर्षाणि भारद्वाजस्य वीर्यवान् ।तूर्णं चापविनिर्मुक्तैस्तदद्भुतमिवाभवत् ॥ २९ ॥

Segmented

नाशयन् शर-वर्षाणि भारद्वाजस्य वीर्यवान् तूर्णम् चाप-विनिर्मुक्तैः तत् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
नाशयन् नाशय् pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
चाप चाप pos=n,comp=y
विनिर्मुक्तैः विनिर्मुच् pos=va,g=m,c=3,n=p,f=part
तत् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan