Original

द्रोणं हि समरे कोऽन्यो योद्धुमर्हति फल्गुनात् ।रौद्रः क्षत्रियधर्मोऽयं गुरुणा यदयुध्यत ।इत्यब्रुवञ्जनास्तत्र संग्रामशिरसि स्थिताः ॥ २३ ॥

Segmented

द्रोणम् हि समरे को ऽन्यो योद्धुम् अर्हति फल्गुनात् रौद्रः क्षत्रिय-धर्मः ऽयम् गुरुणा यद् अयुध्यत इति अब्रुवन् जनाः तत्र संग्राम-शिरसि स्थिताः

Analysis

Word Lemma Parse
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
हि हि pos=i
समरे समर pos=n,g=n,c=7,n=s
को pos=n,g=m,c=1,n=s
ऽन्यो अन्य pos=n,g=m,c=1,n=s
योद्धुम् युध् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
फल्गुनात् फल्गुन pos=n,g=m,c=5,n=s
रौद्रः रौद्र pos=a,g=m,c=1,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
गुरुणा गुरु pos=n,g=m,c=3,n=s
यद् यत् pos=i
अयुध्यत युध् pos=v,p=3,n=s,l=lan
इति इति pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
जनाः जन pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
संग्राम संग्राम pos=n,comp=y
शिरसि शिरस् pos=n,g=n,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part