Original

ततः कनकपुङ्खाग्रैर्वीरः संनतपर्वभिः ।त्वरन्गाण्डीवनिर्मुक्तैरर्जुनस्तस्य वाजिनः ।चतुर्भिश्चतुरस्तीक्ष्णैरविध्यत्परमेषुभिः ॥ ८ ॥

Segmented

ततः कनक-पुङ्ख-अग्रैः वीरः संनत-पर्वभिः त्वरन् गाण्डीव-निर्मुक्तैः अर्जुनः तस्य वाजिनः चतुर्भिः चतुरः तीक्ष्णैः अविध्यत् परम-इषुभिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कनक कनक pos=n,comp=y
पुङ्ख पुङ्ख pos=n,comp=y
अग्रैः अग्र pos=n,g=m,c=3,n=p
वीरः वीर pos=n,g=m,c=1,n=s
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
त्वरन् त्वर् pos=va,g=m,c=1,n=s,f=part
गाण्डीव गाण्डीव pos=n,comp=y
निर्मुक्तैः निर्मुच् pos=va,g=m,c=3,n=p,f=part
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वाजिनः वाजिन् pos=n,g=m,c=2,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
परम परम pos=a,comp=y
इषुभिः इषु pos=n,g=m,c=3,n=p