Original

ततः पार्थो महातेजा विशिखानग्नितेजसः ।चिक्षेप समरे क्रुद्धस्त्रयोदश शिलाशितान् ॥ २० ॥

Segmented

ततः पार्थो महा-तेजाः विशिखान् अग्नि-तेजस् चिक्षेप समरे क्रुद्धः त्रयोदश शिला-शितान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
विशिखान् विशिख pos=n,g=m,c=2,n=p
अग्नि अग्नि pos=n,comp=y
तेजस् तेजस् pos=n,g=m,c=2,n=p
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
त्रयोदश त्रयोदशन् pos=a,g=n,c=2,n=s
शिला शिला pos=n,comp=y
शितान् शा pos=va,g=m,c=2,n=p,f=part