Original

वैशंपायन उवाच ।एतस्मिन्नन्तरे तत्र महावीर्यपराक्रमः ।आजगाम महासत्त्वः कृपः शस्त्रभृतां वरः ।अर्जुनं प्रति संयोद्धुं युद्धार्थी स महारथः ॥ १ ॥

Segmented

वैशंपायन उवाच एतस्मिन्न् अन्तरे तत्र महा-वीर्य-पराक्रमः आजगाम महा-सत्त्वः कृपः शस्त्रभृताम् वरः अर्जुनम् प्रति संयोद्धुम् युद्ध-अर्थी स महा-रथः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
तत्र तत्र pos=i
महा महत् pos=a,comp=y
वीर्य वीर्य pos=n,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
संयोद्धुम् संयुध् pos=vi
युद्ध युद्ध pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s