Original

कृपस्यैतद्रथानीकं प्रापयस्वैतदेव माम् ।एतस्य दर्शयिष्यामि शीघ्रास्त्रं दृढधन्विनः ॥ ५ ॥

Segmented

कृपस्य एतत् रथ-अनीकम् प्रापयस्व एतत् एव माम् एतस्य दर्शयिष्यामि शीघ्र-अस्त्रम् दृढ-धन्विनः

Analysis

Word Lemma Parse
कृपस्य कृप pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
रथ रथ pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=1,n=s
प्रापयस्व प्रापय् pos=v,p=2,n=s,l=lot
एतत् एतद् pos=n,g=n,c=2,n=s
एव एव pos=i
माम् मद् pos=n,g=,c=2,n=s
एतस्य एतद् pos=n,g=m,c=6,n=s
दर्शयिष्यामि दर्शय् pos=v,p=1,n=s,l=lrt
शीघ्र शीघ्र pos=a,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
दृढ दृढ pos=a,comp=y
धन्विनः धन्विन् pos=a,g=m,c=6,n=s