Original

वैशंपायन उवाच ।तथा व्यूढेष्वनीकेषु कौरवेयैर्महारथैः ।उपायादर्जुनस्तूर्णं रथघोषेण नादयन् ॥ १ ॥

Segmented

वैशंपायन उवाच तथा व्यूढेषु अनीकेषु कौरवेयैः महा-रथैः उपायाद् अर्जुनः तूर्णम् रथ-घोषेण नादयन्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
व्यूढेषु व्यूह् pos=va,g=m,c=7,n=p,f=part
अनीकेषु अनीक pos=n,g=m,c=7,n=p
कौरवेयैः कौरवेय pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
उपायाद् उपया pos=v,p=3,n=s,l=lan
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
रथ रथ pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
नादयन् नादय् pos=va,g=m,c=1,n=s,f=part