Original

अश्वत्थामोवाच ।आचार्य एव क्षमतां शान्तिरत्र विधीयताम् ।अभिषज्यमाने हि गुरौ तद्वृत्तं रोषकारितम् ॥ १२ ॥

Segmented

अश्वत्थामा उवाच आचार्य एव क्षमताम् शान्तिः अत्र विधीयताम् अभिषज्यमाने हि गुरौ तद्-वृत्तम् रोष-कारितम्

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आचार्य आचार्य pos=n,g=m,c=1,n=s
एव एव pos=i
क्षमताम् क्षम् pos=v,p=3,n=s,l=lot
शान्तिः शान्ति pos=n,g=f,c=1,n=s
अत्र अत्र pos=i
विधीयताम् विधा pos=v,p=3,n=s,l=lot
अभिषज्यमाने अभिषञ्ज् pos=va,g=m,c=7,n=s,f=part
हि हि pos=i
गुरौ गुरु pos=n,g=m,c=7,n=s
तद् तद् pos=n,comp=y
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
रोष रोष pos=n,comp=y
कारितम् कारय् pos=va,g=n,c=1,n=s,f=part