Original

नया हि बहवः सन्ति शास्त्राण्याश्रित्य चिन्तिताः ।तेषां युद्धं तु पापिष्ठं वेदयन्ति पुराविदः ॥ २ ॥

Segmented

नया हि बहवः सन्ति शास्त्राणि आश्रित्य चिन्तिताः तेषाम् युद्धम् तु पापिष्ठम् वेदयन्ति पुराविदः

Analysis

Word Lemma Parse
नया नय pos=n,g=m,c=1,n=p
हि हि pos=i
बहवः बहु pos=a,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
शास्त्राणि शास्त्र pos=n,g=n,c=2,n=p
आश्रित्य आश्रि pos=vi
चिन्तिताः चिन्तय् pos=va,g=m,c=1,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
युद्धम् युद्ध pos=n,g=n,c=2,n=s
तु तु pos=i
पापिष्ठम् पापिष्ठ pos=a,g=n,c=2,n=s
वेदयन्ति वेदय् pos=v,p=3,n=p,l=lat
पुराविदः पुराविद् pos=n,g=m,c=1,n=p