Original

ततस्तद्वचनान्मत्स्यो दूतान्राजा समादिशत् ।आचक्षध्वं पुरं गत्वा संग्रामे विजयं मम ॥ ४८ ॥

Segmented

ततस् तद्-वचनात् मत्स्यः दूतान् राजा समादिशत् आचक्षध्वम् पुरम् गत्वा संग्रामे विजयम् मम

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तद् तद् pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
मत्स्यः मत्स्य pos=n,g=m,c=1,n=s
दूतान् दूत pos=n,g=m,c=2,n=p
राजा राजन् pos=n,g=m,c=1,n=s
समादिशत् समादिस् pos=v,p=3,n=s,l=lan
आचक्षध्वम् आचक्ष् pos=v,p=2,n=p,l=lot
पुरम् पुर pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
संग्रामे संग्राम pos=n,g=m,c=7,n=s
विजयम् विजय pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s