Original

अथाब्रवीत्प्रीतमना मत्स्यराजो युधिष्ठिरम् ।पुनरेव महाबाहुर्विराटो राजसत्तमः ।एहि त्वामभिषेक्ष्यामि मत्स्यराजोऽस्तु नो भवान् ॥ ४२ ॥

Segmented

अथ अब्रवीत् प्रीत-मनाः मत्स्य-राजः युधिष्ठिरम् पुनः एव महा-बाहुः विराटो राज-सत्तमः एहि त्वाम् अभिषेक्ष्यामि मत्स्य-राजः ऽस्तु नो भवान्

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
मत्स्य मत्स्य pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
विराटो विराट pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
एहि pos=v,p=2,n=s,l=lot
त्वाम् त्वद् pos=n,g=,c=2,n=s
अभिषेक्ष्यामि अभिषिच् pos=v,p=1,n=s,l=lrt
मत्स्य मत्स्य pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
नो मद् pos=n,g=,c=6,n=p
भवान् भवत् pos=a,g=m,c=1,n=s