Original

शतानि त्रीणि शूराणां सहदेवः प्रतापवान् ।युधिष्ठिरसमादिष्टो निजघ्ने पुरुषर्षभः ।भित्त्वा तां महतीं सेनां त्रिगर्तानां नरर्षभ ॥ २५ ॥

Segmented

शतानि त्रीणि शूराणाम् सहदेवः प्रतापवान् युधिष्ठिर-समादिष्टः निजघ्ने पुरुष-ऋषभः भित्त्वा ताम् महतीम् सेनाम् त्रिगर्तानाम् नर-ऋषभ

Analysis

Word Lemma Parse
शतानि शत pos=n,g=n,c=2,n=p
त्रीणि त्रि pos=n,g=n,c=2,n=p
शूराणाम् शूर pos=n,g=m,c=6,n=p
सहदेवः सहदेव pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,comp=y
समादिष्टः समादिस् pos=va,g=m,c=1,n=s,f=part
निजघ्ने निहन् pos=v,p=3,n=s,l=lit
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
भित्त्वा भिद् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
महतीम् महत् pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
त्रिगर्तानाम् त्रिगर्त pos=n,g=m,c=6,n=p
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s