Original

योत्स्यसे चापि बलिभिररिभिः प्रत्युपस्थितैः ।अन्यैस्त्वं पाण्डवैर्वापि हीनस्वबलवाहनैः ॥ १३ ॥

Segmented

योत्स्यसे च अपि बलिभिः अरिभिः प्रत्युपस्थितैः अन्यैः त्वम् पाण्डवैः वा अपि हीन-स्व-बल-वाहनैः

Analysis

Word Lemma Parse
योत्स्यसे युध् pos=v,p=2,n=s,l=lrt
pos=i
अपि अपि pos=i
बलिभिः बलिन् pos=a,g=m,c=3,n=p
अरिभिः अरि pos=n,g=m,c=3,n=p
प्रत्युपस्थितैः प्रत्युपस्था pos=va,g=m,c=3,n=p,f=part
अन्यैः अन्य pos=n,g=m,c=3,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
वा वा pos=i
अपि अपि pos=i
हीन हा pos=va,comp=y,f=part
स्व स्व pos=a,comp=y
बल बल pos=n,comp=y
वाहनैः वाहन pos=n,g=m,c=3,n=p