Original

इष्टदानो महोत्साहः शश्वद्धर्मपरायणः ।अशुभद्विट्शुभप्रेप्सुर्नित्ययज्ञः शुभव्रतः ।भविष्यति जनस्तत्र यत्र राजा युधिष्ठिरः ॥ २३ ॥

Segmented

इष्ट-दानः महा-उत्साहः शश्वद् धर्म-परायणः अशुभ-द्विः शुभ-प्रेप्सुः नित्य-यज्ञः शुभ-व्रतः भविष्यति जनः तत्र यत्र राजा युधिष्ठिरः

Analysis

Word Lemma Parse
इष्ट इष् pos=va,comp=y,f=part
दानः दान pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
उत्साहः उत्साह pos=n,g=m,c=1,n=s
शश्वद् शश्वत् pos=i
धर्म धर्म pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s
अशुभ अशुभ pos=a,comp=y
द्विः द्विष् pos=a,g=m,c=1,n=s
शुभ शुभ pos=a,comp=y
प्रेप्सुः प्रेप्सु pos=a,g=m,c=1,n=s
नित्य नित्य pos=a,comp=y
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
शुभ शुभ pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
जनः जन pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
यत्र यत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s