Original

वैशंपायन उवाच ।तस्यास्ताः कृपणा वाचः कृष्णायाः परिदेविताः ।श्रुत्वैवाभ्यपतद्भीमः शयनादविचारयन् ॥ १५ ॥

Segmented

वैशंपायन उवाच तस्याः ताः कृपणा वाचः कृष्णायाः परिदेविताः श्रुत्वा एव अभ्यपतत् भीमः शयनाद् अविचारयन्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्याः तद् pos=n,g=f,c=6,n=s
ताः तद् pos=n,g=f,c=2,n=p
कृपणा कृपण pos=a,g=f,c=2,n=p
वाचः वाच् pos=n,g=f,c=2,n=p
कृष्णायाः कृष्णा pos=n,g=f,c=6,n=s
परिदेविताः परिदेवय् pos=va,g=f,c=2,n=p,f=part
श्रुत्वा श्रु pos=vi
एव एव pos=i
अभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
भीमः भीम pos=n,g=m,c=1,n=s
शयनाद् शयन pos=n,g=n,c=5,n=s
अविचारयन् अविचारयत् pos=a,g=m,c=1,n=s