Original

वैशंपायन उवाच ।इत्युक्त्वा तं महाबाहुर्भीमो भीमपराक्रमः ।समुत्पत्य च कौन्तेयः प्रहस्य च नराधमम् ।भीमो जग्राह केशेषु माल्यवत्सु सुगन्धिषु ॥ ४७ ॥

Segmented

वैशंपायन उवाच इति उक्त्वा तम् महा-बाहुः भीमो भीम-पराक्रमः समुत्पत्य च कौन्तेयः प्रहस्य च नर-अधमम् भीमो जग्राह केशेषु माल्यवत्सु सुगन्धिषु

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
भीमो भीम pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
समुत्पत्य समुत्पत् pos=vi
pos=i
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
प्रहस्य प्रहस् pos=vi
pos=i
नर नर pos=n,comp=y
अधमम् अधम pos=a,g=m,c=2,n=s
भीमो भीम pos=n,g=m,c=1,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
केशेषु केश pos=n,g=m,c=7,n=p
माल्यवत्सु माल्यवत् pos=a,g=m,c=7,n=p
सुगन्धिषु सुगन्धि pos=a,g=m,c=7,n=p