Original

येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयतेऽनिशम् ।तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ॥ १७ ॥

Segmented

येषाम् दुन्दुभि-निर्घोषः ज्या-घोषः श्रूयते ऽनिशम् तेषाम् माम् मानिनीम् भार्याम् सूतपुत्रः पदा अवधीत्

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
दुन्दुभि दुन्दुभि pos=n,comp=y
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
ज्या ज्या pos=n,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
ऽनिशम् अनिशम् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
माम् मद् pos=n,g=,c=2,n=s
मानिनीम् मानिन् pos=a,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
पदा पद् pos=n,g=m,c=3,n=s
अवधीत् वध् pos=v,p=3,n=s,l=lun