Original

द्रौपद्युवाच ।येषां वैरी न स्वपिति पदा भूमिमुपस्पृशन् ।तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ॥ १५ ॥

Segmented

द्रौपदी उवाच येषाम् वैरी न स्वपिति पदा भूमिम् उपस्पृशन् तेषाम् माम् मानिनीम् भार्याम् सूतपुत्रः पदा अवधीत्

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
येषाम् यद् pos=n,g=m,c=6,n=p
वैरी वैरिन् pos=n,g=m,c=1,n=s
pos=i
स्वपिति स्वप् pos=v,p=3,n=s,l=lat
पदा पद् pos=n,g=m,c=3,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
उपस्पृशन् उपस्पृश् pos=va,g=m,c=1,n=s,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
माम् मद् pos=n,g=,c=2,n=s
मानिनीम् मानिन् pos=a,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
पदा पद् pos=n,g=m,c=3,n=s
अवधीत् वध् pos=v,p=3,n=s,l=lun