Original

लोका हि सर्वे तपसा ध्रियन्ते तस्मात्त्वरध्वं तपसः क्षयाय ।ये सन्ति केचिद्धि वसुंधरायां तपस्विनो धर्मविदश्च तज्ज्ञाः ।तेषां वधः क्रियतां क्षिप्रमेव तेषु प्रनष्टेषु जगत्प्रनष्टम् ॥ २० ॥

Segmented

लोका हि सर्वे तपसा ध्रियन्ते तस्मात् त्वरध्वम् तपसः क्षयाय ये सन्ति केचिद् हि वसुंधरायाम् तपस्विनो धर्म-विदः च तज्ज्ञाः तेषाम् वधः क्रियताम् क्षिप्रम् एव तेषु प्रनष्टेषु जगत् प्रनष्टम्

Analysis

Word Lemma Parse
लोका लोक pos=n,g=m,c=1,n=p
हि हि pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
तपसा तपस् pos=n,g=n,c=3,n=s
ध्रियन्ते धृ pos=v,p=3,n=p,l=lat
तस्मात् तद् pos=n,g=m,c=5,n=s
त्वरध्वम् त्वर् pos=v,p=2,n=p,l=lot
तपसः तपस् pos=n,g=n,c=6,n=s
क्षयाय क्षय pos=n,g=m,c=4,n=s
ये यद् pos=n,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
केचिद् कश्चित् pos=n,g=m,c=1,n=p
हि हि pos=i
वसुंधरायाम् वसुंधरा pos=n,g=f,c=7,n=s
तपस्विनो तपस्विन् pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
pos=i
तज्ज्ञाः तज्ज्ञ pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
वधः वध pos=n,g=m,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
तेषु तद् pos=n,g=m,c=7,n=p
प्रनष्टेषु प्रणश् pos=va,g=m,c=7,n=p,f=part
जगत् जगन्त् pos=n,g=n,c=1,n=s
प्रनष्टम् प्रणश् pos=va,g=n,c=1,n=s,f=part