Original

मह्यं ततो वै द्विगुणं रथश्चैव हिरण्मयः ।मनोजवौ वाजिनौ च दित्सितं ते महासुर ।जिज्ञास्यतां रथः सद्यो व्यक्तमेष हिरण्मयः ॥ १३ ॥

Segmented

मह्यम् ततो वै द्विगुणम् रथः च एव हिरण्मयः मनः-जवौ वाजिनौ च दित्सितम् ते महा-असुर जिज्ञास्यताम् रथः सद्यो व्यक्तम् एष हिरण्मयः

Analysis

Word Lemma Parse
मह्यम् मद् pos=n,g=,c=4,n=s
ततो ततस् pos=i
वै वै pos=i
द्विगुणम् द्विगुण pos=a,g=n,c=1,n=s
रथः रथ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
हिरण्मयः हिरण्मय pos=a,g=m,c=1,n=s
मनः मनस् pos=n,comp=y
जवौ जव pos=n,g=m,c=1,n=d
वाजिनौ वाजिन् pos=n,g=m,c=1,n=d
pos=i
दित्सितम् दित्सित pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
महा महत् pos=a,comp=y
असुर असुर pos=n,g=m,c=8,n=s
जिज्ञास्यताम् जिज्ञास् pos=v,p=3,n=s,l=lot
रथः रथ pos=n,g=m,c=1,n=s
सद्यो सद्यस् pos=i
व्यक्तम् व्यक्त pos=a,g=n,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
हिरण्मयः हिरण्मय pos=a,g=m,c=1,n=s