Original

स विदित्वा तु नृपतिः कुम्भयोनिमुपागमत् ।विषयान्ते सहामात्यः प्रत्यगृह्णात्सुसत्कृतम् ॥ २ ॥

Segmented

स विदित्वा तु नृपतिः कुम्भयोनिम् उपागमत् विषय-अन्ते सहामात्यः प्रत्यगृह्णात् सु सत्कृतम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विदित्वा विद् pos=vi
तु तु pos=i
नृपतिः नृपति pos=n,g=m,c=1,n=s
कुम्भयोनिम् कुम्भयोनि pos=n,g=m,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun
विषय विषय pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
सहामात्यः सहामात्य pos=a,g=m,c=1,n=s
प्रत्यगृह्णात् प्रतिग्रह् pos=v,p=3,n=s,l=lan
सु सु pos=i
सत्कृतम् सत्कृ pos=va,g=m,c=2,n=s,f=part