Original

तव च भ्रातरं वीरमपश्यं सव्यसाचिनम् ।शक्रस्यार्धासनगतं तत्र मे विस्मयो महान् ।आसीत्पुरुषशार्दूल दृष्ट्वा पार्थं तथागतम् ॥ ६ ॥

Segmented

तव च भ्रातरम् वीरम् अपश्यम् सव्यसाचिनम् शक्रस्य अर्ध-आसन-गतम् तत्र मे विस्मयो महान् आसीत् पुरुष-शार्दूल दृष्ट्वा पार्थम् तथागतम्

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
pos=i
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
अपश्यम् पश् pos=v,p=1,n=s,l=lan
सव्यसाचिनम् सव्यसाचिन् pos=n,g=m,c=2,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
अर्ध अर्ध pos=n,comp=y
आसन आसन pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
विस्मयो विस्मय pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
पुरुष पुरुष pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
दृष्ट्वा दृश् pos=vi
पार्थम् पार्थ pos=n,g=m,c=2,n=s
तथागतम् तथागत pos=a,g=m,c=2,n=s