Original

महानदी च तत्रैव तथा गयशिरोऽनघ ।यत्रासौ कीर्त्यते विप्रैरक्षय्यकरणो वटः ।यत्र दत्तं पितृभ्योऽन्नमक्षय्यं भवति प्रभो ॥ ८ ॥

Segmented

महानदी च तत्र एव तथा गयशिरो ऽनघ यत्र असौ कीर्त्यते विप्रैः अक्षय्य-करणः वटः यत्र दत्तम् पितृभ्यो ऽन्नम् अक्षय्यम् भवति प्रभो

Analysis

Word Lemma Parse
महानदी महानदी pos=n,g=f,c=1,n=s
pos=i
तत्र तत्र pos=i
एव एव pos=i
तथा तथा pos=i
गयशिरो गयशिरस् pos=n,g=n,c=1,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
यत्र यत्र pos=i
असौ अदस् pos=n,g=m,c=1,n=s
कीर्त्यते कीर्तय् pos=v,p=3,n=s,l=lat
विप्रैः विप्र pos=n,g=m,c=3,n=p
अक्षय्य अक्षय्य pos=a,comp=y
करणः करण pos=n,g=m,c=1,n=s
वटः वट pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
पितृभ्यो पितृ pos=n,g=m,c=4,n=p
ऽन्नम् अन्न pos=n,g=n,c=1,n=s
अक्षय्यम् अक्षय्य pos=a,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
प्रभो प्रभु pos=n,g=m,c=8,n=s