Original

पाञ्चालेषु च कौरव्य कथयन्त्युत्पलावतम् ।विश्वामित्रोऽयजद्यत्र शक्रेण सह कौशिकः ।यत्रानुवंशं भगवाञ्जामदग्न्यस्तथा जगौ ॥ ११ ॥

Segmented

पाञ्चालेषु च कौरव्य कथयन्त्य् उत्पलावतम् विश्वामित्रो ऽयजद् यत्र शक्रेण सह कौशिकः यत्र अनुवंशम् भगवान् जामदग्न्यः तथा जगौ

Analysis

Word Lemma Parse
पाञ्चालेषु पाञ्चाल pos=n,g=m,c=7,n=p
pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
कथयन्त्य् कथय् pos=v,p=3,n=p,l=lat
उत्पलावतम् उत्पलावत pos=n,g=n,c=2,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
ऽयजद् यज् pos=v,p=3,n=s,l=lan
यत्र यत्र pos=i
शक्रेण शक्र pos=n,g=m,c=3,n=s
सह सह pos=i
कौशिकः कौशिक pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
अनुवंशम् अनुवंश pos=n,g=m,c=2,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
जामदग्न्यः जामदग्न्य pos=n,g=m,c=1,n=s
तथा तथा pos=i
जगौ गा pos=v,p=3,n=s,l=lit