Original

वैशंपायन उवाच ।तान्सर्वानुत्सुकान्दृष्ट्वा पाण्डवान्दीनचेतसः ।आश्वासयंस्तदा धौम्यो बृहस्पतिसमोऽब्रवीत् ॥ १ ॥

Segmented

वैशम्पायन उवाच तान् सर्वान् उत्सुकान् दृष्ट्वा पाण्डवान् दीन-चेतसः आश्वासयंस् तदा धौम्यो बृहस्पति-समः ऽब्रवीत्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
उत्सुकान् उत्सुक pos=a,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
दीन दीन pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=2,n=p
आश्वासयंस् आश्वासय् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
धौम्यो धौम्य pos=n,g=m,c=1,n=s
बृहस्पति बृहस्पति pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan