Original

गङ्गायास्त्वपरं द्वीपं प्राप्य यः स्नाति भारत ।त्रिरात्रोपोषितो राजन्सर्वकामानवाप्नुयात् ॥ ५ ॥

Segmented

गङ्गायास् तु अपरम् द्वीपम् प्राप्य यः स्नाति भारत त्रि-रात्र-उपोषितः राजन् सर्व-कामान् अवाप्नुयात्

Analysis

Word Lemma Parse
गङ्गायास् गङ्गा pos=n,g=f,c=6,n=s
तु तु pos=i
अपरम् अपर pos=n,g=n,c=2,n=s
द्वीपम् द्वीप pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
यः यद् pos=n,g=m,c=1,n=s
स्नाति स्ना pos=v,p=3,n=s,l=lat
भारत भारत pos=a,g=m,c=8,n=s
त्रि त्रि pos=n,comp=y
रात्र रात्र pos=n,comp=y
उपोषितः उपवस् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
कामान् काम pos=n,g=m,c=2,n=p
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin