Original

ततः कुञ्जः सरस्वत्यां कृतो भरतसत्तम ।ऋषीणामवकाशः स्याद्यथा तुष्टिकरो महान् ॥ ९३ ॥

Segmented

ततः कुञ्जः सरस्वत्याम् कृतो भरत-सत्तम ऋषीणाम् अवकाशः स्याद् यथा तुष्टि-करः महान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कुञ्जः कुञ्ज pos=n,g=m,c=1,n=s
सरस्वत्याम् सरस्वती pos=n,g=f,c=7,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
अवकाशः अवकाश pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i
तुष्टि तुष्टि pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s