Original

तत्र स्नात्वा दिवं यान्ति अपि पापकृतो जनाः ।पृथूदके नरश्रेष्ठ प्राहुरेवं मनीषिणः ॥ १२९ ॥

Segmented

तत्र स्नात्वा दिवम् यान्ति अपि पाप-कृतः जनाः पृथूदके नर-श्रेष्ठ प्राहुः एवम् मनीषिणः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
दिवम् दिव् pos=n,g=m,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
अपि अपि pos=i
पाप पाप pos=n,comp=y
कृतः कृत् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
पृथूदके पृथूदक pos=n,g=n,c=7,n=s
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
एवम् एवम् pos=i
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p