Original

पुलस्त्य उवाच ।ततो गच्छेत राजेन्द्र कुरुक्षेत्रमभिष्टुतम् ।पापेभ्यो विप्रमुच्यन्ते तद्गताः सर्वजन्तवः ॥ १ ॥

Segmented

पुलस्त्य उवाच ततो गच्छेत राज-इन्द्र कुरुक्षेत्रम् अभिष्टुतम् पापेभ्यो विप्रमुच्यन्ते तद्-गताः सर्व-जन्तवः

Analysis

Word Lemma Parse
पुलस्त्य पुलस्त्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
कुरुक्षेत्रम् कुरुक्षेत्र pos=n,g=n,c=2,n=s
अभिष्टुतम् अभिष्टु pos=va,g=n,c=2,n=s,f=part
पापेभ्यो पाप pos=n,g=n,c=5,n=p
विप्रमुच्यन्ते विप्रमुच् pos=v,p=3,n=p,l=lat
तद् तद् pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
जन्तवः जन्तु pos=n,g=m,c=1,n=p