Original

सायं प्रातः स्मरेद्यस्तु पुष्कराणि कृताञ्जलिः ।उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु भारत ।प्राप्नुयाच्च नरो लोकान्ब्रह्मणः सदनेऽक्षयान् ॥ ५३ ॥

Segmented

सायम् प्रातः स्मरेद् यस् तु पुष्कराणि कृताञ्जलिः उपस्पृष्टम् भवेत् तेन सर्व-तीर्थेषु भारत प्राप्नुयात् च नरो लोकान् ब्रह्मणः सदने ऽक्षयान्

Analysis

Word Lemma Parse
सायम् साय pos=n,g=n,c=2,n=s
प्रातः प्रातर् pos=i
स्मरेद् स्मृ pos=v,p=3,n=s,l=vidhilin
यस् यद् pos=n,g=m,c=1,n=s
तु तु pos=i
पुष्कराणि पुष्कर pos=n,g=n,c=2,n=p
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
उपस्पृष्टम् उपस्पृश् pos=va,g=n,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तेन तद् pos=n,g=m,c=3,n=s
सर्व सर्व pos=n,comp=y
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
भारत भारत pos=a,g=m,c=8,n=s
प्राप्नुयात् प्राप् pos=v,p=3,n=s,l=vidhilin
pos=i
नरो नर pos=n,g=m,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
सदने सदन pos=n,g=n,c=7,n=s
ऽक्षयान् अक्षय pos=a,g=m,c=2,n=p