Original

स्नात्वा च चमसोद्भेदे अग्निष्टोमफलं लभेत् ।शिवोद्भेदे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ ११९ ॥

Segmented

स्नात्वा च चमसोद्भेदे अग्निष्टोम-फलम् लभेत् शिवोद्भेदे नरः स्नात्वा गो सहस्र-फलम् लभेत्

Analysis

Word Lemma Parse
स्नात्वा स्ना pos=vi
pos=i
चमसोद्भेदे चमसोद्भेद pos=n,g=m,c=7,n=s
अग्निष्टोम अग्निष्टोम pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin
शिवोद्भेदे शिवोद्भेद pos=n,g=m,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin