Original

एवमुक्त्वा तु संक्रुद्धा रथैः सर्वे पृथक्पृथक् ।निर्ययुः पाण्डवान्हन्तुं संघशः कृतनिश्चयाः ॥ २१ ॥

Segmented

एवम् उक्त्वा तु संक्रुद्धा रथैः सर्वे पृथक् पृथक् निर्ययुः पाण्डवान् हन्तुम् संघशः कृत-निश्चयाः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
संक्रुद्धा संक्रुध् pos=va,g=m,c=1,n=p,f=part
रथैः रथ pos=n,g=m,c=3,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i
निर्ययुः निर्या pos=v,p=3,n=p,l=lit
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
हन्तुम् हन् pos=vi
संघशः संघशस् pos=i
कृत कृ pos=va,comp=y,f=part
निश्चयाः निश्चय pos=n,g=m,c=1,n=p