Original

ततो विषविमुक्तात्मा स्वरूपमकरोत्कलिः ।तं शप्तुमैच्छत्कुपितो निषधाधिपतिर्नलः ॥ २९ ॥

Segmented

ततो विष-विमुक्त-आत्मा स्व-रूपम् अकरोत् कलिः तम् शप्तुम् ऐच्छत् कुपितो निषध-अधिपतिः नलः

Analysis

Word Lemma Parse
ततो ततस् pos=i
विष विष pos=n,comp=y
विमुक्त विमुच् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
कलिः कलि pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
शप्तुम् शप् pos=vi
ऐच्छत् इष् pos=v,p=3,n=s,l=lan
कुपितो कुप् pos=va,g=m,c=1,n=s,f=part
निषध निषध pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
नलः नल pos=n,g=m,c=1,n=s