Original

तच्छ्रुत्वा नाब्रवीत्किंचिदृतुपर्णो नराधिपः ।न च पारिषदः कश्चिद्भाष्यमाणो मयासकृत् ॥ ४ ॥

Segmented

तत् श्रुत्वा न अब्रवीत् किंचिद् ऋतुपर्णो नराधिपः न च पारिषदः कश्चिद् भाष्यमाणो मया असकृत्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
ऋतुपर्णो ऋतुपर्ण pos=n,g=m,c=1,n=s
नराधिपः नराधिप pos=n,g=m,c=1,n=s
pos=i
pos=i
पारिषदः पारिषद pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
भाष्यमाणो भाष् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
असकृत् असकृत् pos=i