Original

नानाधातुशतैर्नद्धान्विविधानपि चाचलान् ।निकुञ्जान्पक्षिसंघुष्टान्दरीश्चाद्भुतदर्शनाः ।नदीः सरांसि वापीश्च विविधांश्च मृगद्विजान् ॥ ६ ॥

Segmented

नाना धातु-शतैः नद्धान् विविधान् अपि च अचलान् निकुञ्जान् पक्षि-संघुष्टान् दरीः च अद्भुत-दर्शनाः नदीः सरांसि वापीः च विविधांः च मृग-द्विजान्

Analysis

Word Lemma Parse
नाना नाना pos=i
धातु धातु pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
नद्धान् नह् pos=va,g=m,c=2,n=p,f=part
विविधान् विविध pos=a,g=m,c=2,n=p
अपि अपि pos=i
pos=i
अचलान् अचल pos=n,g=m,c=2,n=p
निकुञ्जान् निकुञ्ज pos=n,g=m,c=2,n=p
पक्षि पक्षिन् pos=n,comp=y
संघुष्टान् संघुष् pos=va,g=m,c=2,n=p,f=part
दरीः दरी pos=n,g=f,c=2,n=p
pos=i
अद्भुत अद्भुत pos=a,comp=y
दर्शनाः दर्शन pos=n,g=f,c=2,n=p
नदीः नदी pos=n,g=f,c=2,n=p
सरांसि सरस् pos=n,g=n,c=2,n=p
वापीः वापी pos=n,g=f,c=2,n=p
pos=i
विविधांः विविध pos=a,g=m,c=2,n=p
pos=i
मृग मृग pos=n,comp=y
द्विजान् द्विज pos=n,g=m,c=2,n=p