Original

यस्याविभक्तं वसु राजन्सहायैस्तस्य दुःखेऽप्यंशभाजः सहायाः ।सहायानामेष संग्रहणेऽभ्युपायः सहायाप्तौ पृथिवीप्राप्तिमाहुः ॥ २० ॥

Segmented

यस्य अविभक्तम् वसु राजन् सहायैस् तस्य दुःखे ऽप्य् अंश-भाजः सहायाः सहायानाम् एष संग्रहणे ऽभ्युपायः सहाय-आप्तौ पृथिवी-प्राप्तिम् आहुः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=n,c=6,n=s
अविभक्तम् अविभक्त pos=a,g=n,c=1,n=s
वसु वसु pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सहायैस् सहाय pos=n,g=m,c=3,n=p
तस्य तद् pos=n,g=m,c=6,n=s
दुःखे दुःख pos=n,g=n,c=7,n=s
ऽप्य् अपि pos=i
अंश अंश pos=n,comp=y
भाजः भाज् pos=a,g=m,c=1,n=p
सहायाः सहाय pos=n,g=m,c=1,n=p
सहायानाम् सहाय pos=n,g=m,c=6,n=p
एष एतद् pos=n,g=m,c=1,n=s
संग्रहणे संग्रहण pos=n,g=n,c=7,n=s
ऽभ्युपायः अभ्युपाय pos=n,g=m,c=1,n=s
सहाय सहाय pos=n,comp=y
आप्तौ आप्ति pos=n,g=f,c=7,n=s
पृथिवी पृथिवी pos=n,comp=y
प्राप्तिम् प्राप्ति pos=n,g=f,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit