Original

तेनार्धं वाससश्छित्त्वा निवस्य च परंतपः ।सुप्तामुत्सृज्य वैदर्भीं प्राद्रवद्गतचेतनः ॥ १७ ॥

Segmented

तेन अर्धम् वाससः छित्त्वा निवस्य च परंतपः सुप्ताम् उत्सृज्य वैदर्भीम् प्राद्रवद् गत-चेतनः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
अर्धम् अर्ध pos=n,g=n,c=2,n=s
वाससः वासस् pos=n,g=n,c=6,n=s
छित्त्वा छिद् pos=vi
निवस्य निवस् pos=vi
pos=i
परंतपः परंतप pos=a,g=m,c=1,n=s
सुप्ताम् स्वप् pos=va,g=f,c=2,n=s,f=part
उत्सृज्य उत्सृज् pos=vi
वैदर्भीम् वैदर्भी pos=n,g=f,c=2,n=s
प्राद्रवद् प्रद्रु pos=v,p=3,n=s,l=lan
गत गम् pos=va,comp=y,f=part
चेतनः चेतन pos=n,g=m,c=1,n=s