Original

ततोऽन्तरिक्षे विष्टभ्य विमानानि दिवौकसः ।अब्रुवन्नैषधं राजन्नवतीर्य नभस्तलात् ॥ २८ ॥

Segmented

ततो ऽन्तरिक्षे विष्टभ्य विमानानि दिवौकसः अब्रुवन् नैषधम् राजन्न् अवतीर्य नभस्तलात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
विष्टभ्य विष्टम्भ् pos=vi
विमानानि विमान pos=n,g=n,c=2,n=p
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
नैषधम् नैषध pos=n,g=m,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अवतीर्य अवतृ pos=vi
नभस्तलात् नभस्तल pos=n,g=n,c=5,n=s