Original

अजातशत्रुर्हि विमुक्तरागो धर्मेणेमां पृथिवीं शास्तु राजन् ।ततो राजन्पार्थिवाः सर्व एव वैश्या इवास्मानुपतिष्ठन्तु सद्यः ॥ १३ ॥

Segmented

अजात-शत्रुः हि विमुक्त-रागः धर्मेण इमाम् पृथिवीम् शास्तु राजन् ततो राजन् पार्थिवाः सर्व एव वैश्या इव अस्मान् उपतिष्ठन्तु सद्यः

Analysis

Word Lemma Parse
अजात अजात pos=a,comp=y
शत्रुः शत्रु pos=n,g=m,c=1,n=s
हि हि pos=i
विमुक्त विमुच् pos=va,comp=y,f=part
रागः राग pos=n,g=m,c=1,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
शास्तु शास् pos=v,p=3,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
वैश्या वैश्य pos=n,g=m,c=1,n=p
इव इव pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
उपतिष्ठन्तु उपस्था pos=v,p=3,n=p,l=lot
सद्यः सद्यस् pos=i