Original

यद्येतदेवमनुमन्ता सुतस्ते संप्रीयमाणः पाण्डवैरेकराज्यम् ।तापो न ते वै भविता प्रीतियोगात्त्वं चेन्न गृह्णासि सुतं सहायैः ।अथापरो भवति हि तं निगृह्य पाण्डोः पुत्रं प्रकुरुष्वाधिपत्ये ॥ १२ ॥

Segmented

यद्य् एतद् एवम् अनुमन्ता सुतस् ते संप्रीयमाणः पाण्डवैः एक-राज्यम् तापो न ते वै भविता प्रीति-योगात् त्वम् चेन् न गृह्णासि सुतम् सहायैः अथ अपरः भवति हि तम् निगृह्य पाण्डोः पुत्रम् प्रकुरुष्व आधिपत्ये

Analysis

Word Lemma Parse
यद्य् यदि pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
अनुमन्ता अनुमन्तृ pos=a,g=m,c=1,n=s
सुतस् सुत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
संप्रीयमाणः सम्प्री pos=va,g=m,c=1,n=s,f=part
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
एक एक pos=n,comp=y
राज्यम् राज्य pos=n,g=n,c=2,n=s
तापो ताप pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
वै वै pos=i
भविता भवितृ pos=a,g=m,c=1,n=s
प्रीति प्रीति pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
चेन् चेद् pos=i
pos=i
गृह्णासि ग्रह् pos=v,p=2,n=s,l=lat
सुतम् सुत pos=n,g=m,c=2,n=s
सहायैः सहाय pos=n,g=m,c=3,n=p
अथ अथ pos=i
अपरः अपर pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
हि हि pos=i
तम् तद् pos=n,g=m,c=2,n=s
निगृह्य निग्रह् pos=vi
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
प्रकुरुष्व प्रकृ pos=v,p=2,n=s,l=lot
आधिपत्ये आधिपत्य pos=n,g=n,c=7,n=s