Original

अथ भीमो महाबाहुर्युधिष्ठिरमभाषत ।निदेशात्ते महाराज गतोऽसौ पुरुषर्षभः ।अर्जुनः पाण्डुपुत्राणां यस्मिन्प्राणाः प्रतिष्ठिताः ॥ ५ ॥

Segmented

अथ भीमो महा-बाहुः युधिष्ठिरम् अभाषत निदेशात् ते महा-राज गतो ऽसौ पुरुष-ऋषभः अर्जुनः पाण्डु-पुत्राणाम् यस्मिन् प्राणाः प्रतिष्ठिताः

Analysis

Word Lemma Parse
अथ अथ pos=i
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan
निदेशात् निदेश pos=n,g=m,c=5,n=s
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
ऽसौ अदस् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
यस्मिन् यद् pos=n,g=n,c=7,n=s
प्राणाः प्राण pos=n,g=m,c=1,n=p
प्रतिष्ठिताः प्रतिष्ठा pos=va,g=m,c=1,n=p,f=part