Original

वैशंपायन उवाच ।गतेषु लोकपालेषु पार्थः शत्रुनिबर्हणः ।चिन्तयामास राजेन्द्र देवराजरथागमम् ॥ १ ॥

Segmented

वैशम्पायन उवाच गतेषु लोकपालेषु पार्थः शत्रु-निबर्हणः चिन्तयामास राज-इन्द्र देवराज-रथ-आगमम्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गतेषु गम् pos=va,g=m,c=7,n=p,f=part
लोकपालेषु लोकपाल pos=n,g=m,c=7,n=p
पार्थः पार्थ pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
निबर्हणः निबर्हण pos=a,g=m,c=1,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
देवराज देवराज pos=n,comp=y
रथ रथ pos=n,comp=y
आगमम् आगम pos=n,g=m,c=2,n=s