Original

सोऽगच्छत्पर्वतं पुण्यमेकाह्नैव महामनाः ।मनोजवगतिर्भूत्वा योगयुक्तो यथानिलः ॥ २८ ॥

Segmented

सो ऽगच्छत् पर्वतम् पुण्यम् एक-अह्ना एव महामनाः मनोजव-गतिः भूत्वा योग-युक्तः यथा अनिलः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽगच्छत् गम् pos=v,p=3,n=s,l=lan
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
एक एक pos=n,comp=y
अह्ना अहर् pos=n,g=n,c=3,n=s
एव एव pos=i
महामनाः महामनस् pos=a,g=m,c=1,n=s
मनोजव मनोजव pos=n,comp=y
गतिः गति pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
योग योग pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
अनिलः अनिल pos=n,g=m,c=1,n=s