Original

वैशंपायन उवाच ।भीमसेनवचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः ।निःश्वस्य पुरुषव्याघ्रः संप्रदध्यौ परंतपः ॥ १ ॥

Segmented

वैशम्पायन उवाच भीमसेन-वचः श्रुत्वा कुन्ती-पुत्रः युधिष्ठिरः निःश्वस्य पुरुष-व्याघ्रः संप्रदध्यौ परंतपः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भीमसेन भीमसेन pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
निःश्वस्य निःश्वस् pos=vi
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
संप्रदध्यौ संप्रध्या pos=v,p=3,n=s,l=lit
परंतपः परंतप pos=a,g=m,c=1,n=s