Original

यदेनः कुरुते किंचिद्राजा भूमिमवाप्नुवन् ।सर्वं तन्नुदते पश्चाद्यज्ञैर्विपुलदक्षिणैः ॥ ७५ ॥

Segmented

यद् एनः कुरुते किंचिद् राजा भूमिम् अवाप्नुवन् सर्वम् तत् नुदते पश्चाद् यज्ञैः विपुल-दक्षिणैः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
एनः एनस् pos=n,g=n,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
अवाप्नुवन् अवाप् pos=va,g=m,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
नुदते नुद् pos=v,p=3,n=s,l=lat
पश्चाद् पश्चात् pos=i
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
विपुल विपुल pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p