Original

सर्वथा संहतैरेव दुर्बलैर्बलवानपि ।अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव ॥ ६८ ॥

Segmented

सर्वथा संहतैः एव दुर्बलैः बलवान् अपि अमित्रः शक्यते हन्तुम् मधुहा भ्रमरैः इव

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
संहतैः संहन् pos=va,g=m,c=3,n=p,f=part
एव एव pos=i
दुर्बलैः दुर्बल pos=a,g=m,c=3,n=p
बलवान् बलवत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
अमित्रः अमित्र pos=n,g=m,c=1,n=s
शक्यते शक् pos=v,p=3,n=s,l=lat
हन्तुम् हन् pos=vi
मधुहा मधुहा pos=n,g=,c=1,n=s
भ्रमरैः भ्रमर pos=n,g=m,c=3,n=p
इव इव pos=i