Original

तद्वाशु क्रियतां राजन्प्राप्तिर्वाप्यधिगम्यताम् ।जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः ॥ ४३ ॥

Segmented

तद् वा आशु क्रियताम् राजन् प्राप्तिः वा अपि अधिगम्यताम् जीवितम् हि आतुरस्य इव दुःखम् अन्तर-वर्तिनः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
वा वा pos=i
आशु आशु pos=a,g=n,c=2,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
प्राप्तिः प्राप्ति pos=n,g=f,c=1,n=s
वा वा pos=i
अपि अपि pos=i
अधिगम्यताम् अधिगम् pos=v,p=3,n=s,l=lot
जीवितम् जीवित pos=n,g=n,c=1,n=s
हि हि pos=i
आतुरस्य आतुर pos=a,g=m,c=6,n=s
इव इव pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
अन्तर अन्तर pos=a,comp=y
वर्तिनः वर्तिन् pos=a,g=m,c=6,n=s